Bhagavad Gita Chapter 18: Explanations and Meanings

The Bhagavad Gita’s Chapter 18 is called “Moksha Sannyasa Yoga,” which means “The Yoga of Liberation and Renunciation.” In this chapter, Arjuna asks Lord Krishna for more wisdom about renunciation, the different kinds of actions, and the qualities that associated with each.

Arjuna expresses his desire to understand the essence of renunciation (sannyasa) and the nature of different types of renunciations (tyaga).

The God explained, the wise understand that the renunciation of desire-motivated actions is known as sannyasa, and the relinquishment of the fruits of all actions is called tyaga.

The performance of sacrifices, charity, and austerity should not be abandoned but should be performed. Indeed, sacrifice, charity, and austerity are purifying for wise individuals.

However, even these actions should be performed without attachment to their results. O Arjuna, this is my ultimate and conclusive opinion: perform your prescribed duties without attachment to the outcome.

 

॥अष्टादशोऽध्यायः – मोक्ष-सन्न्यास योगः॥

अर्जुन उवाच

सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन॥१॥

श्रीभगवानुवाच

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥२॥
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे॥३॥
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः॥४॥
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्॥५॥
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥६॥
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥७॥
दुःखमित्येव यत्कर्म कायक्लेशभयात् त्यजेत्।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥८॥
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥९॥
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥१०॥
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥११॥
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित्॥१२॥
पञ्चैतानि महाबाहो कारणानि निबोध मे।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥१३॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥१४॥
शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥१५॥
तत्रैवं सति कर्तारमात्मानं केवलं तु यः।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥१६॥
यस्य नाहं कृतो भावो बुद्धिर्यस्य न लिप्यते।
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते॥१७॥
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥१८॥
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः।
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि॥१९॥
सर्वभूतेषु येनैकं भावमव्ययमीक्षते।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥२०॥
पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥२१॥
यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्॥२२॥
नियतं सङ्गरहितमरागद्वेषतः कृतम्।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते॥२३॥
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः।
क्रियते बहुलायासं तद्राजसमुदाहृतम्॥२४॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते॥२५॥
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते॥२६॥
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥२७॥
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥२८॥
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय॥२९॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥३०॥
यया धर्ममधर्मं च कार्यं चाकार्यमेव च।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी॥३१॥
अधर्मं धर्ममिति या मन्यते तमसाऽवृता।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी॥३२॥
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥३३॥
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥३४॥
यया स्वप्नं भयं शोकं विषादं मदमेव च।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥३५॥
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति॥३६॥
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।
तत्सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम्॥३७॥
विषयेन्द्रियसंयोगाद्-यत्तदग्रेऽमृतोपमम्।
परिणामे विषमिव तत्सुखं राजसं स्मृतम्॥३८॥
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्॥३९॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः॥४०॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥४१॥
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥४२॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥४३॥
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥४४॥
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥४५॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥४६॥
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।
स्वभावनियतं कर्म कुर्वन्नऽऽप्नोति किल्बिषम्॥४७॥
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवऽऽवृताः॥४८॥
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति॥४९॥
सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥५०॥
बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।
शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च॥५१॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥५२॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥५३॥
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥५४॥
भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥५५॥
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥५६॥
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥५७॥
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि॥५८॥
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥५९॥
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा।
कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत्॥६०॥
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥६१॥
तमेव शरणं गच्छ सर्वभावेन भारत।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥६२॥
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥६३॥
सर्वगुह्यतमं भूयः शृणु मे परमं वचः।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥६४॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥६५॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥६६॥
इदं ते नातपस्काय नाभक्ताय कदाचन।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥६७॥
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥६८॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।
भविता न च मे तस्मादन्यः प्रियतरो भुवि॥६९॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥७०॥
श्रद्धावाननसूयश्च शृणुयादपि यो नरः।
सोऽपि मुक्तः शुभाँल्लोकान् प्राप्नुयात् पुण्यकर्मणाम्॥७१॥
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय॥७२॥

अर्जुन उवाच

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥७३॥

सञ्जय उवाच

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।
संवादमिममश्रौषमद्भुतं रोमहर्षणम्॥७४॥
व्यासप्रसादाच्छ्रुतवान् एतद्गुह्यमहं परम्।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्॥७५॥
राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम्।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥७६॥
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः॥७७॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥७८॥

॥ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नाम अष्टादशोऽध्यायः॥

॥aṣṭādaśo’dhyāyaḥ – mokṣa-sannyāsa yogaḥ॥

arjuna uvāca

sannyāsasya mahābāho tattvamicchāmi veditum।
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana॥1॥

śrībhagavānuvāca

kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ।
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ॥2॥
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ।
yajñadānatapaḥkarma na tyājyamiti cāpare॥3॥
niścayaṃ śṛṇu me tatra tyāge bharatasattama।
tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ॥4॥
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat।
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām॥5॥
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca।
kartavyānīti me pārtha niścitaṃ matamuttamam॥6॥
niyatasya tu sannyāsaḥ karmaṇo nopapadyate।
mohāttasya parityāgastāmasaḥ parikīrtitaḥ॥7॥
duḥkhamityeva yatkarma kāyakleśabhayāt tyajet।
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet॥8॥
kāryamityeva yatkarma niyataṃ kriyate’rjuna।
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ॥9॥
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate।
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ॥10॥
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ।
yastu karmaphalatyāgī sa tyāgītyabhidhīyate॥11॥
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam।
bhavatyatyāgināṃ pretya na tu sannyāsināṃ kvacit॥12॥
pañcaitāni mahābāho kāraṇāni nibodha me।
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām॥13॥
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham।
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam॥14॥
śarīravāṅmanobhiryat karma prārabhate naraḥ।
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ॥15॥
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ।
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ॥16॥
yasya nāhaṃ kṛto bhāvo buddhiryasya na lipyate।
hatvā’pi sa imā~llokānna hanti na nibadhyate॥17॥
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā।
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ॥18॥
jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ।
procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi॥19॥
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate।
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam॥20॥
pṛthaktvena tu yajjñānaṃ nānābhāvān pṛthagvidhān।
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam॥21॥
yattu kṛtsnavadekasmin kārye saktamahaitukam।
atattvārthavadalpaṃ ca tattāmasamudāhṛtam॥22॥
niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam।
aphalaprepsunā karma yattatsāttvikamucyate॥23॥
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ।
kriyate bahulāyāsaṃ tadrājasamudāhṛtam॥24॥
anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam।
mohādārabhyate karma yattattāmasamucyate॥25॥
muktasaṅgo’nahaṃvādī dhṛtyutsāhasamanvitaḥ।
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate॥26॥
rāgī karmaphalaprepsurlubdho hiṃsātmako’śuciḥ।
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ॥27॥
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko’lasaḥ।
viṣādī dīrghasūtrī ca kartā tāmasa ucyate॥28॥
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu।
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya॥29॥
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye।
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī॥30॥
yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca।
ayathāvat prajānāti buddhiḥ sā pārtha rājasī॥31॥
adharmaṃ dharmamiti yā manyate tamasā’vṛtā।
sarvārthān viparītāṃśca buddhiḥ sā pārtha tāmasī॥32॥
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ।
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī॥33॥
yayā tu dharmakāmārthān dhṛtyā dhārayate’rjuna।
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī॥34॥
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca।
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī॥35॥
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha।
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati॥36॥
yattadagre viṣamiva pariṇāme’mṛtopamam।
tatsukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam॥37॥
viṣayendriyasaṃyogād-yattadagre’mṛtopamam।
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam॥38॥
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ।
nidrālasyapramādotthaṃ tattāmasamudāhṛtam॥39॥
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ।
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāt tribhirguṇaiḥ॥40॥
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa।
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ॥41॥
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca।
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam॥42॥
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam।
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam॥43॥
kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam।
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam॥44॥
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ।
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu॥45॥
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam।
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ॥46॥
śreyān svadharmo viguṇaḥ paradharmātsvanuṣṭhitāt।
svabhāvaniyataṃ karma kurvanna”pnoti kilbiṣam॥47॥
sahajaṃ karma kaunteya sadoṣamapi na tyajet।
sarvārambhā hi doṣeṇa dhūmenāgniriva”vṛtāḥ॥48॥
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ।
naiṣkarmyasiddhiṃ paramāṃ sannyāsenādhigacchati॥49॥
siddhiṃ prāpto yathā brahma tathā”pnoti nibodha me।
samāsenaiva kaunteya niṣṭhā jñānasya yā parā॥50॥
buddhyā viśuddhayā yukto dhṛtyā”tmānaṃ niyamya ca।
śabdādīn viṣayāṃstyaktvā rāgadveṣau vyudasya ca॥51॥
viviktasevī laghvāśī yatavākkāyamānasaḥ।
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ॥52॥
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham।
vimucya nirmamaḥ śānto brahmabhūyāya kalpate॥53॥
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati।
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām॥54॥
bhaktyā māmabhijānāti yāvān yaścāsmi tattvataḥ।
tato māṃ tattvato jñātvā viśate tadanantaram॥55॥
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ।
matprasādādavāpnoti śāśvataṃ padamavyayam॥56॥
cetasā sarvakarmāṇi mayi sannyasya matparaḥ।
buddhiyogamupāśritya maccittaḥ satataṃ bhava॥57॥
maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi।
atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi॥58॥
yadahaṅkāramāśritya na yotsya iti manyase।
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati॥59॥
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā।
kartuṃ necchasi yanmohāt kariṣyasyavaśo’pi tat॥60॥
īśvaraḥ sarvabhūtānāṃ hṛddeśe’rjuna tiṣṭhati।
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā॥61॥
tameva śaraṇaṃ gaccha sarvabhāvena bhārata।
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam॥62॥
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā।
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru॥63॥
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ।
iṣṭo’si me dṛḍhamiti tato vakṣyāmi te hitam॥64॥
manmanā bhava madbhakto madyājī māṃ namaskuru।
māmevaiṣyasi satyaṃ te pratijāne priyo’si me॥65॥
sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja।
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ॥66॥
idaṃ te nātapaskāya nābhaktāya kadācana।
na cāśuśrūṣave vācyaṃ na ca māṃ yo’bhyasūyati॥67॥
ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati।
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ॥68॥
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ।
bhavitā na ca me tasmādanyaḥ priyataro bhuvi॥69॥
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ।
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ॥70॥
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ।
so’pi muktaḥ śubhā~llokān prāpnuyāt puṇyakarmaṇām॥71॥
kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā।
kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya॥72॥

arjuna uvāca

naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayā’cyuta।
sthito’smi gatasandehaḥ kariṣye vacanaṃ tava॥73॥

sañjaya uvāca

ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ।
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam॥74॥
vyāsaprasādācchrutavān etadguhyamahaṃ param।
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam॥75॥
rājan saṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam।
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ॥76॥
tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ।
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ॥77॥
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ।
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama॥78॥

॥oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasannyāsayogo nāma aṣṭādaśo’dhyāyaḥ॥